कश्चन गुरुः शिष्येण सह गच्छन् आसीत् । मार्गे गुरुः कस्यचित् वृक्षस्य अधः स्थित्वा 'तथास्तु' इति अवदत् ।गुरुणा तथा किमर्थम् उक्तम् इति अजानन् शिष्यः गुरुम् एतस्य कारणम् अपृच्छत् ।
तदा गुरुः अवदत् "सः महावृक्षः स्वस्य मनोवृत्तिम् अन्यं महावृक्षं प्रति यत् अवदत् तत् मया श्रुतम् । अतः 'तथास्तु' इति उक्तम्" इति । "तस्य महावृक्षस्य का मनोवृत्तिः ?" शिष्यः अपृच्छत् ।
"सः महावृक्षः चिन्तयति यत् चक्रवर्ती भूत्वा भूमण्डलं परिपालनीयम् इति ।"तदा शिष्यः हसन् अपृच्छत् - "गुरुवर्य ! असम्भवम् एतत् । अत्याशा ननु तस्य ? तस्य अर्हता अस्ति किं चक्रवर्तित्वं प्राप्तुम् ?'"
"अर्हता कुतः न स्यात् पुत्र ! आजीवनं प्रतिफलापेक्षां विना फलानि ददाति सः । आश्रयं दत्त्वा सर्वान् प्राणिनः रक्षति अपि । एतत्सर्वं पुण्यजनकम् एव ननु ?'"
"तत् तु सत्यम् । किन्तु वृक्षः कथं चक्रवर्ती भवितुम् अर्हति ?"
"भगवतः सङ्कल्पः यदि स्यात् तर्हि लोके असाध्यं किं वा स्यात् ?"
तस्यां रात्रौ महती वृष्टिः अभवत् । सः वृक्षः वायुना भूमौ पातितः । शिष्यः तत् दृष्ट्वा हसन् तं प्रसङ्गं विस्मृतवान् ।
केचन मासाः अतीताः । एकस्मिन् दिने शिष्यः धावन् गुरुम् अवदत् - "गुरुवर्य ! ज्ञातं किं भवता ? भरतः श्रीरामचन्द्रस्य पादुकयोः पट्टाभिषेकं कृतवान् इति श्रूयते । इतःपरं चतुर्दश वर्षाणि पादुके एव समग्रं साम्राज्यं पालयिष्यतः ।"
तदा गुरुः समन्दहासम् अवदत् - "वृक्षः चक्रवर्ती कथं भविष्यति इति मां पृष्टवान् आसीः ननु त्वम् ! इदानीं पश्य, तत् सम्पन्नम् एव !"
"कथम् एतत् समभवत् गुरुवर्य !"
"वत्स ! महावृक्षस्य काष्ठेन एव तक्षकः पादुके निर्माय रामाय दत्तवान् आसीत् । सहस्त्राधिकानां वर्षाणां पुण्यफलेन तपःफलेन च वृक्षः पादुके भूत्वा रामचन्द्रस्य समीपं गतः । रामः भरताय ते पादुके दत्तवान् । भरतः तयोः पादुकयोः पट्टाभिषेकं कृतवान् । एवं चक्रवर्तित्वं प्राप्तव्यम् इति वृक्षस्य इच्छा पूरिता जाता।"