१२) सौभाग्यवती भव।

'श्वः सर्वान् पाण्डवान् युद्धे हनिष्यामि अहम्'  युद्धस्य कस्मिंश्चित् दिने पितामहः भीष्मः घोषणाम् अकरोत् । तस्य शक्तेः सामर्थ्यस्य च विषये जानानाः सर्वे पाण्डवपक्षीयाः भीताः। एवं चेत् किम् अग्रे इति आतङ्कः तेषाम्। तां रात्रिं सर्वे चिन्तया एव अयापयन्। न कोऽपि केनापि सह अभाषत। सर्वे अपि चिन्ताक्रान्ताः।

रात्रौ एव श्रीकृष्णः द्रौपदीम् उपसर्प्य आदिष्टवान् "अधुना एव त्वं भीष्मस्य आवासं गत्वा तं नमस्कुरु" इति।

"किमर्थम् इदानीं मध्यरात्रे तत्र गमनम् ?" इति अपृच्छत् द्रौपदी ।

तदा कृष्णः अवदत् - "प्रतिप्रश्नं कमपि मा कुरु । अविलम्बेन गच्छ" इति ।

द्रौपदी तु भीता सती अपि श्रीकृष्णे पूर्णतः विश्वासं कृत्वा भीष्मावासं गतवती ।

मध्यरात्रे आगतां नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा महत् आश्चर्यं प्राप्तं भीष्मेण। तथापि तेन सहजतया आशीर्वादः दत्तः "अखण्डसौभाग्यवती भव" इति ।

विच्छायं द्रौपद्याः मुखम् एतस्य दर्शनात् क्षणार्धेन विकसितम् अभवत् । तत् दृष्ट्वा भीष्मेण विषयः समग्रः ज्ञातः। अतः सः हसन् अपृच्छत् "ईदृशे मध्यरात्रे माम् उपसर्प्य नमस्कारः करणीयः इति किं त्वां श्रीकृष्णः अवदत् ?" इति।

"न केवलम् अवदत्, स्वयं सः मां स्वीकृत्य आगतवान्। बहिः स्थितवान् अस्ति सः" उदतरत् द्रौपदी।

"मम एकस्य वचनस्य, मम एव वचनान्तरेण खण्डनं कारयितुं श्रीकृष्णः एव क्षमः। गच्छ ! तव भर्तारः एकेन नमस्कारेण रक्षिताः।"

सर्वमपि श्रुत्वा, भीष्मं मनसा नमस्कृत्य श्वस्तनं सङ्कटं निवारितम् इति विचिन्त्य आश्वस्तः अभवत् श्रीकृष्णः।

द्रौपद्या सह प्रतिगमनावसरे सः उक्तवान् "त्वया कृतेन नमस्कारेण तव पतिभिः जीवदानं लब्धम् । यदि प्रतिदिनं भीष्मं, द्रोणाचार्यम्, अन्यान् ज्येष्ठान् च त्वं नमस्कृतवती अभविष्यः, अथवा कौरवपत्न्यः पाण्डुराजं नमस्कृतवत्यः यदि अभविष्यन् तर्हि प्रायः अस्य युद्धस्य आवश्यकता एव न अभविष्यत्" इति ।

स्नेहं, विश्वासम्, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः।अतः एव आचारः अस्ति लोके---'ज्येष्ठाः नन्तव्याः' इति।