काशीनगरे कश्चन संन्यासी आसीत्। सः प्रतिदिनं सायं प्रातः च प्रवचनं करोति स्म । तत् श्रोतुं सहस्त्राधिकाः जनाः सम्मिलन्ति स्म। तदीयं प्रवचनं जनान् मन्त्रमुग्धान् करोति स्म । नगरस्य केचन पण्डिताः कदाचित् तस्य प्रवचनं श्रोतुं गतवन्तः । प्रवचनस्य समाप्तेः अनन्तरं ते परस्परम् अवदन् - "एतस्य प्रवचने असाधुशब्दाः एव बहवः । ग्राम्यशब्दानां प्रयोगः आधिक्येन । पण्डितैः श्रोतुं योग्यं प्रवचनं न एतत्" इति ।
तदा कश्चन विद्वान् अवदत् "एतस्य प्रवचनकारस्य भाषा उत्कृष्टा नास्ति इति तु सत्यम् । तथापि तस्य प्रवचनं श्रोतुं तावन्तः जनाः किमर्थम् आगच्छन्ति ? किमर्थं ते तस्य प्रवचनं श्रद्धया शृण्वन्ति ? तस्य वचने तादृशी विशिष्टा शक्तिः का स्यात् ?" इति ।
प्रवचनकारस्य वचनस्य शक्तेः मूलम् अजानन्तः ते पण्डिताः कदाचित् तस्य गृहं गत्वा स्वस्य जिज्ञासां श्रावितवन्तः । तदा सः संन्यासी अवदत् "मम प्रवचनस्य भाषा उत्कृष्टा नास्ति इति भवन्तः यत् वदन्ति तत् सत्यमेव । यतः अहं न विद्वान्। अहम् अस्मि पामरः कश्चन । अतः मम प्रवचने शास्त्रप्रतिपादनं न दृश्यते । तथापि मम प्रवचनं जनान् मन्त्रमुग्धान् करोति यत् तस्य कारणम् अनुभवः । अनुभवजन्या शक्तिः भवति मम प्रवचने । जगति यद्यत् प्रचलति तत् सूक्ष्मेक्षिकया दृष्ट्वा तानि एव अहम् उदाहरामि। सरलानि तत्त्वानि एव अहं निरूपयामि । जनैः तदेव अवगम्यते" इति ।
तस्य वचनं श्रुत्वा पण्डिताः समाहिताः जाताः। सः एव महात्मा अग्रे 'कबीरः' इति विख्यातः जातः ।
सम्भाषणसन्देशः, जून् २००८