रङ्कं करोति राजानम्।

अकबरचक्रवर्ती कदाचित् बीरबलं पृष्टवान् -"भोः बीरबल ! भवान् बुद्धिमान् खलु । एतेषां त्रयाणां प्रश्नानाम् उत्तरं वदतु ईश्वरः कुत्र अस्ति ? कीदृशः अस्ति ? किं च करोति ?" इति ।

बीरबलः उक्तवान् "अहं सप्ताहानन्तरम् उत्तरं वदिष्यामि" इति । अकबरः अङ्गीकृतवान् ।

ततः षड् दिनानि अतीतानि । तथापि बीरबलः अकबरस्य प्रश्नानाम् उत्तरं न प्राप्तवान्। सप्तमे दिने सः भ्रमणार्थं नदीतीरं गतवान् आसीत् । तत्र कश्चन गोपालकः गाः चारयन् आसीत् । सः बीरबलं चिन्ताकुलं दृष्ट्वा तं चिन्तायाः कारणं पृष्टवान् । बीरबलः स्वस्य समस्याम् उक्तवान् ।

तत् श्रुत्वा गोपालकः उक्तवान् अलं चिन्तया । एतेषां प्रश्नानाम् उत्तरम् अहं जानामि" इति ।

"एवं वा ? तर्हि वदतु" इति बीरबलः उक्तवान् । "भवान् श्वः मां राजसभां नयतु। अहं प्रश्नानाम् उत्तरं तत्रैव वदिष्यामि" इति गोपालकः उक्तवान् ।

परेद्यवि बीरबलः तेन गोपालकेन सह राजसभायाम् उपस्थितः अभवत् । सः अकबरम् उद्दिश्य "महाराज ! भवतः प्रश्नानाम् उत्तरं मम स्नेहितः एषः वदति" इति वदन् तं गोपालकं दर्शितवान् ।

अकबरः तमेव उद्दिश्य प्रश्नान् पृष्टवान् । तदा गोपालकः उक्तवान् "महाराज। भवान् भारतीय-संस्कृतिं जानाति एव । अत्र अतिथिः देवतुल्यः भवति । अहं भवतः अतिथिः अस्मि । प्रथमं भवता अतिथि-सत्कारः करणीयः" इति ।

विस्मितः अकबरः उक्तवान् भवतु नाम। भोः अतिथे । वदतु, भवान् किं पेयम् इच्छति ?" इति । गोपालकः उक्तवान् "अहं गोपालकः अस्मि । दुग्धमेव मह्यं रोचते । तदेव ददातु" इति ।

अकबरः दुग्धम् आनाय्य दत्तवान् । गोपालकः दुग्ध-चषकं गृहीत्वा तमेव पश्यन् स्थितवान् । तदा अकबरः उक्तवान् - "दुग्धं पिबतु भोः !" इति ।

गोपालकः "अहं श्रुतवान् अस्मि यत् दुग्धे नवनीतं भवति इति । किन्तु अत्र नवनीतमेव न दृश्यते" इति उक्तवान् ।

"अरे, भवान् मूर्खः अस्ति। अत्र नवनीतं तु अवश्यं भवति । किन्तु नैव दृश्यते" इति अकबरः उक्तवान् । गोपालकः उक्तवान् "महाराज! एतदेव भवतः प्रश्नद्वयस्य उत्तरम् । दुग्धे नवनीतम् इव ईश्वरः संसारे सर्वत्रापि अस्ति । तथापि न दृश्यते इति ।

सन्तुष्टः अकबरः "भवतु, तृतीयस्य प्रश्नस्य उत्तरं वदतु" इति उक्तवान् ।

गोपालकः उक्तवान् - "किं भवान् मम गुरुः सन् एतं प्रश्नं पृच्छति, उत शिष्यः भूत्वा ?" इति ।

"शिष्यः सन् एव पृच्छामि" इति विनयेन उक्तवान् अकबरः ।

गोपालकः उक्तवान् - "किं भवदीये राज्ये एतादृशः - व्यवहारः अस्ति यत् गुरुः अधः तिष्ठति, शिष्यश्च सिंहासने उपविशति ?" इति ।

''नैव...!" इति वदन् अकबरः सिंहासनात् उत्थाय अधः स्थित्वा गोपालकं सिंहासने उपवेशितवान् ।

"महाराज ! एतदेव भवतः तृतीयप्रश्नस्य उत्तरम् । ईश्वरः रङ्कं करोति राजानं, राजानं रङ्कमेव च" इति । गोपालकस्य उत्तरैः सन्तुष्टः अकबरः तं यथोचितं सत्कृतवान् ।

सम्भाषणसन्देशः,ऑक्टोबर २००१