कस्मिंश्चित् ग्रामे केचन विप्राः वसन्ति स्म । ग्रामात् नातिदूरे मुनेः अङ्गिरसः आश्रमः आसीत् । सः मुनिः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय सन्ध्यावन्दनादीनि नित्यकर्माणि कृत्वा कतिपयान् छात्रान् पाठयति स्म । गुरुः छात्राश्च वेदाध्ययने निमग्नाः भवन्ति स्म। छात्राणां मध्ये तस्य मुनेः पुत्रः अपि वेदाध्ययनं करोति स्म । गुरुः अपि शिष्येभ्यः इव पुत्राय अपि पक्षपातं विना विद्यादानम् अकरोत् । गुरोः मनसि पुत्रस्य अन्यशिष्याणां च मध्ये किमपि अन्तरं न आसीत् ।
अङ्गिरसः पुत्रस्य नाम कविः । कविः अपि पितृतुल्यः गुणवान् विद्यावान् च जातः । ततः कविना आश्रम-सञ्चालनम् आरब्धम् ।
एकदा कवेः मातुलः पितृव्यः इत्यादयः सर्वे वृद्धजनाः कवेः समीपम् आगतवन्तः । तं निवेदितवन्तः च "हे पुत्र ! कवे ! वयं सर्वे वेदाध्ययनं कर्तुम् इच्छामः । भवान् तु अस्माकं पुत्रः एव । अस्माकं वेदाध्ययनं कारयतु" इति । कविः अङ्गीकृतवान् ।
ततः तेन वृद्धवर्गाय वेदाध्यापनम् आरब्धम् । कतिपयदिनानन्तरं कदाचित् पाठनावसरे कविना उक्तम् "हे पुत्राः ! मह्यं जलम् आनयन्तु" इति ।
वृद्धजनाः खिन्नाः अभवन् । 'एषः अस्माकं पुत्रः । तथापि अस्मान् वृद्धजनान् 'पुत्राः' इति सम्बोधयति । नैतद् युक्तम्' इति ते चिन्तितवन्तः । ततः ते सर्वे देवानां समीपं गत्वा अकथयन् - "भो देवाः, कविः अस्माकं शिशुः । तथापि अस्मान् 'पुत्राः' इति कथयति । किम् एतत् न्याय्यम् ?". इति ।
देवाः उक्तवन्तः "कविः यत् उक्तवान् तत् न्याय्यम् एव" इति ।वृद्धजनैः उक्तम् "कथं न्याय्यं भवितुमर्हति ?" इति ।
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञानी मनुजः बालः एव । वेदज्ञः एव पिता इति शास्त्रं निर्दिशति । अन्यच्च 'विप्राणां ज्ञानतो ज्यैष्ठयम्' इति वचनानुसारं ज्ञानस्य कारणतः सः भवदपेक्षया ज्येष्ठः अस्ति एव । अतः तस्य व्यवहारः उचितः एव" इति ।
सर्वेऽपि वृद्धजनाः देवानां वचनं श्रुत्वा समाहिताः अभवन् ।
सम्भाषणसन्देश:, ऑक्टोबर २००२