अनुल्लङ्घ्या न्यायनियमा:।

 न्यायाधीशः न्यायपीठे उपविश्य वादिप्रतिवादिनोः कथनं शृण्वन् आसीत् । तावता युवराजः क्रोधम् उद्वमन् तत्र आगतः । न्यायाधीशः शान्तमुद्रया मन्द हासं प्रकटयन् युवराजस्य मुखम् अपश्यत् ।

"मम सहचरः भवता कारागारे स्थापितः इति श्रुतम् ! किम् एतत् !! विमुच्यतां सः" युवराजः क्रोधेन अवदत् ।

"अपराधं विचार्य साक्ष्यादिकं परिशील्य सः सप्ताहात्मकेन कारागारवासेन मया दण्डितः । यथापराधं दण्डः प्राप्येत सर्वेण अपि" न्यायाधीशः गाम्भीर्येण अवदत् ।

"सः अस्ति मम सहचरः । सः विमोक्तव्यः एव ।" - सानुरोधम् आज्ञास्वरेण अवदत् युवराजः ।

"युक्तायुक्ततां विचार्य दण्डनं विहितं न्यायपीठेन । विहितस्य दण्डस्य अपाकरणे अधिकारः तु महाराजस्य एव । अतः एतद्विषये महाराजः एव प्रार्थनीयः । न्यायपीठेन न किमपि कर्तुं शक्यम्" इति अवदत् न्यायाधीशः ।

"एतस्य अल्पस्य विषयस्य निमित्तं महाराजः किमर्थं प्रार्थ्येत ? अहं भावी राजा, युवराजः आदिशामि । सः मुच्यताम् ।"

"भाविनि राजनि तत्रभवति आदरं प्रदर्शयन् अहं प्रार्थये इदानीं विचारणा काचित् प्रचलति । तत्र विघ्नकरणं न शोभते । कृपया इतः बहिः गम्यताम् । न्यायपीठस्य निर्णयः सम्मतः यदि न स्यात् तर्हि महाराजः निवेद्यताम् ।"

"किं युवराजं माम् एव भवान् वदति बहिः गम्यताम् इति ? वेतनभोगिनः कियत् धाष्टर्थ्यं तव ?"

"युवराजवर्य ! न्यायपीठस्य अगौरवं न करणीयम् । न्यायपीठेन राजपीठे आदरः दर्श्यते । तथैव राजपीठेन अपि न्यायपीठे आदरः दर्शनीयः ।..."

"युवराजम् उद्दिश्य 'निर्गच्छ' इति कथनं किम् आदरदर्शनस्य चिह्नम् ?" युवराजः महता क्रोधेन अपृच्छत् ।

"युवराजवर्य ! न्यायालये एतादृशस्य अविनयस्य प्रदर्शनं न शोभते । तत्रापि भावी राजा, प्रजानां पुरतः आदर्शस्य उपस्थापयिता, एवं कदापि न कुर्यात् । न्यायालयकार्ये विघ्नः कृतः, औद्धत्यं च दर्शितम् इत्यतः दिनात्मकेन कारागारवासेन भवान् दण्ड्यते एतेन न्यायपीठेन" इति दृढस्वरेण अवदत् न्यायाधीशः ।

एतस्य श्रवणात् सर्वे स्तब्धाः अभवन् । न्यायाधीशस्य आज्ञां पुरस्कृत्य भटाः युवराजं कारागारं प्रति अनयन् । एतावता स्वस्य सापराधतां ज्ञातवान् युवराजः विना विरोधं कारागारं प्रति अगच्छत् ।

महाराजेन एषा वार्ता श्रुता । "यस्मिन् राज्ये एतादृशाः निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते" इति