स्थिरं मन:।

सर्वधर्मसम्मेलने भागवहनस्य अनन्तरं स्वामिनः विवेकानन्दस्य ख्यातिः सर्वत्र प्रसृता । अमेरिकादेशस्य विविधेषु भागेषु तदीयस्य भाषणस्य आयोजनमपि प्रवृत्तम् ।

तस्य उपदेशवचनानि श्रोतुं जनाः महता प्रमाणेन उपस्थिताः भवन्ति स्म। भौतिकवादिनां तेषां मनसि विवेकानन्दस्य विषये सन्देहः अपि आसीत्। अतः ते सभायाम् अनेकविधान् प्रश्रान् पृच्छन्ति स्म ।

कदाचित् भाषणावसरे विवेकानन्दः अवदत् -"यः तत्त्वसाक्षात्कारं प्राप्तवान् स्यात् सः बाह्यस्थितिविषये आस्थारहितः भवति । या कापि स्थितिः तं न विचालयति" इति। श्रोतारः विवेकानन्दस्य एतस्मिन् वचने विश्वासं न प्राप्तवन्तः । तैः निर्णीतं यत् एतस्य परीक्षा करणीया इति ।

कदाचित् तैः विवेकानन्दस्य भाषणम् आयोजितम् । भाषणार्थं काष्ठमयी वेदिका तैः सज्जीकृता । सा उन्नता अधोभागे रिक्ता च आसीत् । तस्याः उपरि आसनादिकं संस्थापितम् । यथासमयं भाषणम् आरब्धम् । विवेकानन्दः स्फूर्तिदायिन्या शैल्या भाषणम् अनुवर्तितवान् । सः भाषणे पूर्णतः लीनः जातः ।

किन्तु तावता महान् स्फोटशब्दः श्रुतः ।

सभां परितः द्वित्रेषु स्थलेषु स्फोटनं दृष्टम् । वेदिकायाः अधः अपि स्फोटनशब्दः श्रुतः । एतस्मात् श्रोतारः अस्वस्थचित्ताः जाताः । किन्तु विवेकानन्दः तु यथापूर्वं भाषणे मग्नः । अल्पे एव काले सभायां शान्तता दृष्टा। कार्यक्रमः निर्विघ्नतया परिसमाप्तः च ।

भाषणावसरे विवेकानन्दस्य मुखे चिन्ता भीति: च न दृष्टा एव । एतत् लक्षितवन्तः आयोजकाः नितरां विस्मिताः जाताः । कार्यक्रमसमाप्तेः अनन्तरं ते विवेकानन्दं प्रणम्य "भवतः परीक्षणाय अस्माभिः स्फोटनादिकं कारितम् । भवान् तु स्थितप्रज्ञः इव एव आसीत् । भवतः कथने आचरणे च समानता एव दृश्यते । अद्य अस्माभिः वास्तविकसाधोः दर्शनं प्राप्तम्" इति उक्त्वा क्षमां याचितवन्तः । सर्वं श्रुतवतः अपि विवेकानन्दस्य मुखे सः एव मन्दहासः आसीत्, यश्च सर्वदा तत्र विलसति स्म ।

सम्भाषणसन्देश:, नोव्हेंबर २०११