केतक्या: पतनम्।

एकदा भगवतः विष्णोः ब्रह्मणः च मध्ये 'आवयोः कतरः श्रेष्ठः ?' इत्यस्मिन् विषये विवादः सञ्जातः । तदा भगवान् शिवः ज्योतीरूपेण तत्र आविरभूत् । तस्य रूपस्य आदिः अन्तः वा न दृश्यते स्म । परं तत् रूपं सर्वत्र अपि व्याप्तम् आसीत् । अतः तादृशरूपस्य शिवस्य आदिः अन्त: वा अस्ति किम् इति संशयः भवति स्म ।

ततः विष्णुः ब्रह्मा च निश्चयं कृतवन्तौ यत् 'यः शिवस्य एतादृशरूपस्य आदिम् अन्तं वा द्रष्टुं शक्तः भवति सः एव श्रेष्ठः' इति । अतः उभौ अपि तद्दर्शनाय प्रस्थितौ ।

भगवान् विष्णुः सूकररूपेण गत्वा भूमौ शिवस्य पादौ अन्वेष्टुं प्रयत्नं कृतवान् । परं सः महता प्रयत्नेन अपि तौ अन्वेष्टुम् अशक्तः अभवत् । अन्ते च सः निराशः सन् प्रतिनिवृत्तः ।

अत्रान्तरे चतुर्मुखः ब्रह्मा हंसरूपेण उपरि गत्वा शिवस्य शिरोभागम् अन्वेष्टुं प्रयत्नं कृतवान् । किन्तु सः उपर्युपरि गत्वा अपि शिवस्य शिरः द्रष्टुम् असमर्थः जातः । सोऽपि निराशतया ततः प्रतिनिवर्तमानः आसीत् । तत्समये सः मार्गे केतकीं दृष्टवान् । सा भूमिं प्रति आगच्छन्ती आसीत् । तया सह मिलित्वा ब्रह्मा एकां योजनां चिन्तितवान् ।

ततः तौ मिलित्वा विष्णोः समीपम् आगतवन्तौ । ब्रह्मा विष्णुम् उक्तवान् "भगवन् ! मया तस्य ज्योतीरूपस्य आरम्भः दृष्टः । अत्र केतकी एव प्रमाणम्" इति ।

परन्तु विष्णुः तस्य वचने न विश्वसितवान् । सः केतकीमेव पृष्टवान् "ब्रह्मा यत् उक्तवान् तत् सत्यं किम् ?" इति। तदा केतकी "सत्यमेव.." इति प्रत्यवदत् ।

केतक्याः असत्यवचनेन शिवः कुपितः अभवत् । सः उग्रदृष्ट्या ताम् अपश्यत् । ततः तां शप्तवान् अपि यत् "इतःपरं मम पूजायां तव उपयोगः न भविष्यति" इति । अतः एव तदाप्रभृति शिवस्य पूजार्थं केतकी नोपयुज्यते ।

सम्भाषणसन्देश:, ऑक्टोबर २००३