जर्मन्देशे ग्रामप्रदेशे कश्चन प्राथमिकः विद्यालयः । अन्तिमावधौ अध्यापकः न आसीत् कस्याञ्चित् कक्ष्यायाम् । अतः सर्वे छात्राः महान्तं कोलाहलं कुर्वन्तः आसन् । अतः मुख्याध्यापकः दण्डं गृहीत्वा कक्ष्यां प्राविशत् । तस्य दर्शनेन सर्वे छात्राः तूष्णीम् अभवन् ।
प्रधानाध्यापकः छात्रान् दण्डयितुम् ऐच्छत् । अतः सः छात्रान् आदिष्टवान् "भोः, सर्वैः एकतः शतपर्यन्तं लेखनीयम् । ततः सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः । तदनन्तरमेव भवन्तः गृहं गन्तुम् अर्हन्ति । यः शीघ्रं लिखेत् सः शीघ्रमेव गन्तुम् अर्हति" इति ।
सर्वे छात्राः झटिति लेखने उद्यताः अभवन् । सर्वेषामपि महती चिन्ता 'न ज्ञायते, एतदर्थं कियान् समयः अपेक्ष्येत इति' इति ।
किन्तु तेषु एकः छात्रः लेखनारम्भम् अकृत्वा वातायने दृष्टिं निधाय चिन्तने मग्नः अभवत् । निमेषद्वयाभ्यन्तरे तत्र नेत्रे सन्तोषेण विशाले जाते । सः दक्षिणहस्तम् उन्नीय अपृच्छत् "आचार्यवर्य ! उत्तरं यदि उच्येत तर्हि किमहं गृहं गन्तुं शक्नुयाम् ?"
"निश्चयेन । किन्तु सङ्कलनं किं त्वया कृतम् ?"
"आम्। उत्तरमपि सिद्धम् अस्ति ।"
"दर्श्यताम् उत्तरम्...."
"मया न लिखितम् । मनसि एव सङ्कलनं कृतम् । अतः अहम् उत्तरं वदामि" - छात्रः अवदत् ।
"अस्तु, अत्र मत्समीपम् आगत्य वद ।"
छात्रः गुरोः कर्णे उत्तरम् अवदत् । "साधु" इति गुरुः यावत् अवदत् तावता छात्रः स्यूतम् उन्नीय ततः निर्गतः आसीत् ।
अन्ये छात्राः दीर्घकालं यावत् श्रमं कृतवन्तः । तथापि योग्यम् उत्तरं लेखितुं तैः न शक्तम्। अन्ते गुरुः एव करुणया तान् गृहं प्रति प्रेषितवान् ।
अनन्तरदिने सः तं छात्रम् आहूय अपृच्छत् "भोः, तावता शैघ्र्येण त्वया कथं सङ्कलनं कृतम् ?"
तदा सः छात्रः समन्दहासम् अवदत् "गुरुवर्य, शतपर्यन्तानां सङ्ख्यानां सङ्कलनं करणीयं ननु ? आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योजनं कृतम् । तद्यथा -
१ + १०० = १०१
२ + ९९ = १०१
३ + ९८ = १०१...
एतस्मात् पञ्चाशत् युगलानि प्राप्तानि । सर्वेषां युगलानां सङ्कलनं तु १०१ । अतः पञ्चाशतः युगलानां सङ्कलनं तु - १०१४ x ५० = ५०५० । एतत्सर्वं मया मनसि एव कृतम् ।"
छात्रस्य बुद्धिमत्तां दृष्ट्वा हृष्टः अध्यापकः अवदत् -"वत्स ! महामेधावी असि। त्वम् अग्रे निश्चयेन महतीं कीर्तिं प्राप्स्यसि।"
सः एव बालः भाविनि काले महाभौतविज्ञानित्वेन ख्यातः अभवत् । तस्य नाम 'कार्ल् फेडरिक् गास्' इति।