सञ्जीवनी नाम।

पूर्वम् अनुशिर्वः नाम राजा पर्शियादेशं पालयति स्म। तस्य आस्थाने वैद्यस्य नाम 'बुर्जोयः' इति। 'सञ्जीवनी' नाम्नी ओषधिः अस्ति इति सः श्रुतवान् आसीत्। तत् ओषधिसस्यं भारते पर्वतप्रदेशे उपलभ्यते इत्यपि श्रुतवान् आसीत् सः। एतम् अंशं राजानं निवेद्य सः अवदत् - "यदि भारतात् तत् ओषधिसस्यम् आनीयते तर्हि युद्धविद्धं मरणं प्राप्तवन्तम् उज्जीवितं कर्तुं शक्नुमः। अतः तस्य आनयनव्यवस्था चिन्तनीया" इति।

राजा अवदत् - ‘उत्तमा सूचना एषा। भवान् एव तस्य आनयनाय भारतं गच्छतु’ इति। एतत् अङ्गीकृत्य बुर्जोयः भारतं प्रति प्रस्थितवान्। सः मरुभूमिम् अतिक्रम्य, पर्वतान् आरुह्य अवरुह्य च, नदीः तीर्त्वा, खातेषु सञ्चरन् च सः बहूनां मासानाम् अनन्तरं भारतं प्राप्तवान्। भारते पर्वतप्रदेशेषु सर्वत्र सः सञ्जीवनीम् अन्विष्टवान्। बहून् जनान् सः पृष्टवान्। कुत्रापि समुचितम् उत्तरं न प्राप्तम्। नितरां श्रान्तः सः चिन्तितवान् - तत् सञ्जीविनीसस्यं मया न प्राप्येत इति भाति, अतः प्रतिगमनम् एव वरम् इति।

अत्रान्तरे कश्चन पण्डितः तेन मिलितः। तम् अपि सञ्जीवनीसस्यविषये पृष्टवान् बुर्जोयः। तदा सः पण्डितः उक्तवान् - “अयि भोः, पर्वते सञ्जीवनीसस्यं प्राप्यते इत्येतत् किञ्चन आलङ्कारिकं वचनम्। पर्वताः नाम ज्ञानिनः। ज्ञानेन ते पर्वतौपमाः भवन्ति। मृताः नाम अज्ञानिनः। तान् उज्जीवयति ग्रन्थः। तन्नाम ग्रन्थे तेषां मृतप्रायताम् अपनीय तान् ज्ञानसम्पन्नान् करोति। तादृशं ज्ञानं 'पञ्चतन्त्र'नाम्के ग्रन्थे अस्ति। सः एव सञ्जीवनीतु्ल्यः। तं ग्रन्थं भवान् स्वदेशं नय। तत्रत्यं ज्ञानम् आदौ भवान् स्वयं सम्पादयतु। ततः तत् पात्रे वितरतु। तस्मात् भवतः देशे अपि ज्ञानप्रसारः भविष्यति” इति।

एतत् अभ्युपगम्य बुर्जोयः पञ्चतन्त्र-ग्रन्थं स्वदेशम् अनयत्। स च ग्रन्थः पहलवीभाषया तेन अनूदितः। एषा घटना पहलवीभाषीये पञ्चतन्त्रे विवृता अस्ति। ततः अग्रे स च ग्रन्थः सिरियाक्, अरब्बी, पर्शियन्, युनानी, ल्याटिन्, जर्मन्, स्लाव्, इटालियन्, हिब्रू, इङ्ग्लीष् इत्यादिभिः भाषाभिः अनूदितः अभवत्।

सम्भाषणसन्देश:, ऑगस्ट २०१४