प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति।

एकदा आचार्यमध्वः भारतस्य उत्तरदेशेषु शिष्यैः सह सञ्चरन् गङ्गानद्याः तटं प्राप्नोत् । तत्र तु न कोऽपि नाविकः दृष्टः । अपरतटे राज्यं शासमानः कश्चन तुरुष्कराजः शत्रुभिया न कमपि मनुजं नदीं तीर्त्वा आगन्तुम् अन्वमन्यत । शिष्यैः सहितः आचार्यस्तु कथमपि गङ्गां तीर्त्वा तत्त्वप्रचारं कर्तुमनाः इतस्ततः नावार्थम् अपश्यत् । कापि नौका न दृष्टा । आचार्यः किञ्चित् चिन्तयित्वा कटिस्थम् अङ्गवस्त्रं परिगृह्य स्वशिष्यम् आदिदेश 'जले अवतीर्यताम्' इति । तं शिष्यम् अन्यः, तञ्च अन्ये अवलम्बयामासुः । एवं सर्वे आचार्यस्य नेतृत्वे नद्याम् अवतीर्णाः तरणम् अजानन्तः अपि स्वपूर्वपूर्ववर्तिनम् अवलम्ब्य अगाधमपि अपारं गङ्गापारं समीपयामासुः ।

दूरादेव जले तरतः इमान् दृष्ट्वा तटे स्थिताः राजपुरुषाः राजादेशात् तूर्णमेव अग्रे आगताः एतान् हन्तुकामाः सन्तः । तदा मध्वशिष्यास्तु भीताः किङ्कर्तव्यतामूढाः च जाताः । आचार्यस्तु अविचलः मञ्जुलया अरब्बीवाण्या एव तान् अवदत् "अये। बलवन्तः भवन्तः किमर्थं जलपतनसाहसे उद्युक्ताः ? बहुसङ्ख्याकानां भवताम् अशस्त्रकेभ्यः वेष्टीपूजोपकरणमात्रसहितेभ्यः अस्मत् का वा भीतिः ? वयं तु भवतां महाराजेन मेलितुम् आगताः स्मः" इति ।

अनया रसवत्या वाण्या स्वभावतो व्यग्राः अपि एते सैनिकाः एतान् स्वराजसमीपं नीतवन्तः । एतेषाम् आगमनेन आश्चर्यान्वितः राजा आचार्यम् अपृच्छत् "हे नरोत्तम । कथं वा भवन्तः यमभटसदृशान् मत्सैनिकान् वञ्चयित्वा मत्समीपम् आगतवन्तः ? येऽपि अत्र तीरं प्राप्नुवन्ति तान् विना प्रश्नादिकं घ्नन्ति मदनुयायिनः । इदानीं किं वा कार्यं भवतां मत्तः ? किमर्थम् आगतं भवद्धिः अत्र ?" इति ।

आचार्यस्तु मन्दहासेन अवदत् "आवयोः तत्त्वम् एकमेव। भवन्तः सूर्यं भगवन्तं मन्यन्ते । वयमपि सवितृनामकं परमात्मानम् आराधयामः । भवन्तः भगवतः मूर्तिपूजां न मन्यन्ते। वयम् अपि प्रतिमां भगवन्तं न मन्यामहे, किन्तु प्रतिमास्थं सर्वव्याप्तं परमात्मानमेव आराधयामहे । यतो हि 'प्रतिमासु अप्रबुद्धानाम्....' इति ऋषिवचनम्। एतच्च तत्त्वं सर्वत्र प्रसारयितुं वयं निरताः स्मः । एवम् अत्रापि आगताः । तस्य च भगवतः प्रसादादेव भवत्सैनिकैः वयम् अबाधिताः भवन्तम् आप्ताश्च" इति ।

अनेन हितवचनेन पुलकितः तुरुष्कराजः आचार्यं सभाजयामास । तत्रैव स्थित्वा स्वीये समग्रे देशे तत्त्वोपदेशं दातुं च प्रार्थयामास। परं तत्त्व-प्रतिपादनमेव परिव्राजकस्य स्वस्य कर्तव्यं मन्यमानः आचार्यः कतिचिद्दिनानि तत्र उषित्वा पुनः देशान्तरम् अगमत् ।

सम्भाषणसन्देशः,ऑगस्ट २०१४