चरकाचार्यः आयुर्वेदपितामहत्वेन ख्यातः इति वयं सर्वे जानीमः एव । कदाचित् सः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् आसीत् । औषधीयसस्यानाम् अभिज्ञानं, तेषाम् उपयोगक्रमस्य ज्ञापनं च तस्य उद्देशः आसीत् ।
एवं सञ्चारावसरे कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यं तेन दृष्टम् । तत् सूक्ष्मतया दृष्ट्वा चरकाचार्यः अवदत् - "एतत् तु अपूर्व सस्यम्। अस्य औषधीय गुणाः बहवः । बहूनां रोगाणां निवारणे एतत् महोप-कारकम्" इति ।
"अहो, अस्माकं सौभाग्यम् । इदानीमेव एतस्य पर्णकाण्डमूलादीनि सगृह्णीयाम" इति वदन् शिष्यः उत्साहेन सस्यसमीपं प्रस्थातुम् उद्यतः ।
तावता तं निवार्य चरकाचार्यः "अलं तस्य स्पर्शेन । क्षेत्रस्वामिनः अनुज्ञां विना सस्यादीनां सङ्ग्रहाय प्रयासः अपराधाय भवेत् । अतः आदौ क्षेत्रस्वामिसमीपगमनं चिन्त्यताम्" इति अवदत् ।
तदा शिष्यः अवदत् "आचार्यवर्य भवता तु लोकोपकाराय सस्यादिसङ्ग्रहः क्रियते । एतदर्थं कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा एव खलु अस्ति ? एवं स्थिते एतस्य स्वीकरणाय क्रियमाणं प्रयासं रोढुं कः समर्थः ?" इति ।
चरकाचार्यः शिष्यस्य मुखमेव निर्निमेषं दृष्ट्रा क्षणं विरम्य अवदत् -"तादृशी राजाज्ञा अस्ति इति तु सत्यम् । किन्तु राजाज्ञा अन्या, शिष्टाचारः अन्यः । अनुज्ञां वित्ता अन्याधीनस्य वस्तुनः स्वीकारः अनुचितः इति तु शिष्टाचारः राजाज्ञा अस्ति इति हेतोः शिष्टाचारः कथं परित्यज्येत ? न त्यक्तव्यः सः इति ।
शिष्य : स्वस्य व्यवहारस्य अनौचित्यं जानन् शिर अवनमय्य अतिष्ठत् । क्षणं विरम्य चरकाचार्यः पुनः अवदत् "समाजः अस्मान् अनुकरण ार्हान् मन्यते । एतादृशे स्थाने तिष्ठद्धिः तु स्वस्य व्यवहारस्य विषये विशेषजागरूकता वोढव्या । वयमेव शिष्टाचारादीनाम् उपेक्षां यदि कुर्याम । तत् वोढव्या तर्हि समाजे नैतिकम् अधःपतनं सम्भवेत् यथा न भवेत् तथा जागरूकता सर्वदा एव अस्माभिः" इति ।
सम्भाषणसन्देश:, नोव्हेंबर २०१४