अत्याज्या जन्मभूमि:।

पुरा मिथिलाञ्चलस्य मध्यभागे कौशिकीनदी प्रवहति स्म । तेषु दिनेषु कौशिक्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः अभवन्। बह्वयः आम्रवाटिकाः शुष्काः, शस्यक्षेत्राणि सैकतमयानि जातानि च। सर्वे धनाढ्याः निर्धनाश्च गृहाणि परित्यज्य अन्यत्र पलायन्तः ।

कस्मिंश्चित् ग्रामे कश्चन वृद्धः कृषकः आसीत्। तस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ते तु ग्रामं त्यक्तुम् इच्छन्ति स्म ।

एकस्मिन् दिने प्रातःकाले एषः वृद्धः शौचार्थं ग्रामात् बहिर्गतः । ग्रामस्य तस्मिन् भागे कौशिक्याः जलौघ-कारणात् एका आम्रवाटिका शुष्का आसीत् । तस्याम् आम्रवाटिकायां पूर्वम् ये शतशः वृक्षाः आसन् ते सर्वेऽपि शुष्काः आसन् । ते च वृक्षाः कालक्रमेण शाखाविहीनाः त्वग्विहीनाश्च अभवन् । तेन वृद्धेन दृष्टं यत् एकस्मिन् पत्रविहीने शुष्के शाखा-विहीनेऽपि वृक्षे एकः काकः उपविश्य शब्दायते । एतत् अवलोक्य वृद्धः उपविश्य हस्ताभ्यां स्वशिरः अवलम्ब्य चिन्तितवान् 'समग्रमेव आम्रोद्यानं शुष्कं जातम् । वृक्षाणां शाखाः पर्णानि च विलुप्तानि । किन्तु अयं काकः अद्यापि वृक्षमेतं परित्यज्य अन्यत्र न गतः । किं वयं काकादपि अधमाः जाताः ? यत्र बाल्यादिकं यापितं यौवनसुखम् अनुभूतं तत् जन्मस्थानं किं वयं परित्यजेम ?' इति । 

एवं चिन्तयन् असौ वृद्धः ग्रामपरित्यागचिन्तनं त्यक्तवान् । पुत्रान् पौत्रांश्च उपदिष्टवान् "पश्यत! पक्षिणः अपि महत् कष्टम् अनुभूय अपि जन्मस्थानं परित्यज्य अन्यत्र गन्तुं न इच्छन्ति । वयं तु मानवाः सन्तः पशुपक्षिभ्यः श्रेष्ठाः स्मः । अतः ग्राम-त्यागस्य विचारः उपेक्षणीयः । सुखं दुःखं वा प्राप्येत चेदपि जीवनं तु अत्रैव यापनीयम् । जन्मस्थानं तु अत्याज्यमेव" इति ।

अनन्तरं तस्मिन् ग्रामे महता श्रमेण स्वजीविकां सञ्चाल्य कृषिकार्यम् सम्यक्तया सम्पाद्य सः वृद्धकृषकः पुनः धनाढ्यः सन् महत् सुखम् अनुभूतवान् । कालक्रमेण कौशिक्याः जलौघपीडा अपि अपगता ।

सम्भाषणसन्देश:, सप्टेंबर २००५