पुरातनकाले कश्चन महाराजः आसीत् । सः राज्यशासने अनासक्तः आसीत् । अतः गच्छता कालेन राज्यस्य दुःस्थितिः आगता ।
महाराजस्य अनेके मन्त्रिणः आसन्। ते सर्वे अपि महाराजः इव भोगलोलुपाः एव आसन्। अन्ये केचन सज्जनाः अपि मन्त्रिणः आसन्। परं ते 'यदि वयं किमपि वदेम तर्हि महाराजः कुपितः भवेत्' इति चिन्तयन्तः किमपि न वदन्ति स्म । तथापि तेषु अन्यतमः मन्त्री 'अहं कथमपि महाराजं बोधयामि' इति निश्चयं कृतवान् ।
एकस्मिन् दिने सायङ्काले सः मन्त्री महाराजेन सह वायुविहारार्थम् उद्यानं गतवान् । ततः प्रत्यागमनसमये अन्धकारः व्याप्तः आसीत्। पक्षिणां कलरवः अपि श्रूयते स्म । तदा मन्त्री पक्षिणां कलरवं श्रद्धया कौं दत्त्वा श्रोतुम् आरब्धवान् ।
महाराजः आश्चर्यचकितः भूत्वा तं "किं शृणोति भोः भवान् ?" इति पृष्टवान् ।
तदा मन्त्री उक्तवान् - "अहं पक्षिणां भाषां जानामि । इदानीं द्वयोः पक्षिणोः वार्तालापः प्रचलति । तत् शृण्वन् अस्मि" इति ।
महाराजः कुतूहलेन "कीदृशः वार्तालापः कृतः ताभ्याम् ?" इति पृष्टवान् ।
मन्त्री तत् वक्तुं न इष्टवान् इव। तदा महाराजः पुनः पुनः अनुरोधं कृतवान् । अन्ते मन्त्री उक्तवान् - "महाराज ! ते पक्षिण्यौ । एका पक्षिणी स्वपुत्रीम् अन्यस्याः पुत्राय दातुम् इच्छति । परं सा पक्षिणी तदर्थं वरदक्षिणाम् इच्छति । वरदक्षिणारूपेण भवत्या महां पञ्चाशत् विनष्टाः ग्रामाः दातव्याः" इति सा उक्तवती ।
महाराजस्य महत् आश्चर्यम् अभवत् । सः इतोऽपि कुतूहलेन पृष्टवान् तदा अन्या पक्षिणी किम् उत्तरम् उक्तवती ?"
"सा तु वदति 'पञ्चाशत् एव किमर्थम् ? अहं शतं ग्रामान् अपि दातुं शक्नोमि' इति ।
'कथं भवती तथा वदति ?' इति सा पक्षिणी पृष्टवती । तदा एषा उक्तवती 'यावत् एषः महाराजः एतस्य राज्यस्य शासनं करोति तावत् विनश्यतां ग्रामाणां संख्या न्यूना न भवति एव । अतः अहं धैर्येण उक्तवती' इति ।" मन्त्री विवरणं कृतवान् ।
एतत् श्रुत्वा महाराजः मौनी अभवत् । तद् दृष्ट्वा मन्त्री पृष्टवान् - "प्रभो ! एतादृशम् अपभाषणं कुर्वत्यौ ते पक्षिण्यौ मारयामि किम् ?" इति ।
"मास्तु, मास्तु" इति तं निवारयन् महाराजः उक्तवान् "भवतः अभिप्रायः मया अवगतः। अहं भवन्तं प्रधानमन्त्रिणं करिष्यामि । भवान् तत् पक्षिवचनम् असत्यं यथा भवेत् तथा कर्तुं यद् यद् करणीयं तत् सर्वमपि करोतु । मया किं करणीयम् इत्यपि सूचयतु । सर्वे वयं मिलित्वा राज्यं सुभिक्षं करिष्यामः" इति ।
महाराजस्य ज्ञानोदयः अभवत् इति कृत्वा मन्त्री नितरां सन्तुष्टः अभवत् ।
सम्भाषणसन्देशः, सप्टेम्बर २०००