आसीत् पर्वतप्रदेशे गान्धारः नाम देशः । तत्र महावीरो नाम नरपतिः राज्यं पालयति स्म । सः प्रजाः पुत्रवत् पालयति स्म । एकदा तत्र अत्यल्पा वृष्टिः अभवत् । तदा जनाः जलक्षामेण दुःखिताः जाताः । दुःखितान् तान् दृष्ट्वा राजा जलक्षामनिवारणार्थम् उपायम् अचिन्तयत् । मन्त्रिपरिषदम् आहूय सः जलक्षामनिवारणोपायं व्यचारयत् । तदा मन्त्रिणः अवदन् "प्रभो, तालद्वयदघ्नं योजनविस्तीर्णं सरः निर्मातव्यम् । तेन जलक्षामस्य उपशमनं भवेत्" इति ।
तत् श्रुत्वा राजा तथैव सरः कारितवान् । वर्षाकाले समागते विपुला वृष्टिः अभवत् । तदा तत्सर्वं जलं कासारम् आविशत् । तथापि तत् सरः तु शुष्कम् एव अवर्तत । न तत्र किश्चिदपि जलम् अतिष्ठत् । तत् अवलोक्य राजा - 'किमस्य कारणम् ? एतन्निवारणे किं वा करणीयम्' इति अचिन्तयत् ।
तस्मिन्नेव समये कश्चन ऋषिः तस्य सरसः समीपम् आगतः । राजा तं प्रणम्य फलादिभिः अपूजयत्। तेन सन्तुष्टः तपस्वी राजानम् अपृच्छत् "राजन्, त्वं दुःखितः इव दृश्यसे । किम् अस्य कारणम् ?' इति ।
तदा राजा अवदत् - "भगवन् । प्रजानां दुःखम् अपाकर्तुं महान्तं धनव्ययं कृत्वा एतत् सरः मया कारितम् । तत्र तु जलं बिन्दुमात्रेणापि न तिष्ठति । अतः अहं दुःखितः अस्मि । भवान् एतं प्रत्यवायं स्वतपःप्रभावेण यदि निवारयेत् तर्हि महान् अनुग्रहः कृतः भवेत्" इति ।
तत् श्रुत्वा ऋषिः अवदत् "राजन्। अत्र महान् प्रत्यवायः विद्यते । सरोवरस्य समीपे मातुः दुर्गायाः मन्दिरं विद्यते । तस्यै विशिष्टः उपहारः देयः । विक्रमौदार्यादिविशिष्टगुणोपेतस्य राज्ञः, सकलाभिः योगशक्तिभिः सम्पन्नस्य कस्यचित् ऋषेः वा कण्ठ-रुधिरेण मिश्रितम् अन्नं तस्यै अर्पणीयम् । तथा कृतं चेत् अस्मिन् सरसि जलं न शुष्येत्" इति ।
ऋषेः वचनं श्रुत्वा राजा क्षणं यावत् अचिन्तयत् -'विक्रमौदार्यादिगुणैः सम्पन्नः राजा सुदुर्लभः । तादृशैः गुणैः युक्तः ऋषिः अपि क्व प्राप्येत ?' इति । तावता तस्य मनसि नूतनः विचारः अस्फुरत् । 'ऋषिः अयं योगशक्तिसम्पन्नः अस्ति एव । तया शक्त्या एव प्रत्यवायं ज्ञात्वा परिहारम् उक्तवान् अस्ति अयम् । अतः इममेव ऋषिं बलिं करोमि' इति निश्चित्य कोशात् खड्गम् आकृष्य सः ऋषेः कण्ठं छित्त्वा तद्रक्तेन मिश्रितम् अन्नं दुर्गायै समार्पयत् । ततः वृष्टेः जलं सरसि अतिष्ठत् । सरोवरश्च समुद्रवत् अभासत ।
एवं, यः परिहारस्य उपदेष्टा आसीत् सः एव मरणं प्राप्नोत् । अतः विवेकिभिः उच्यते 'कालम् अवेक्ष्य एव नृपजनान् हितम् अहितं वा उपदेष्टव्यम्। अन्यथा उपदेष्टॄणामेव अपायः सम्भवेत्' इति ।
सम्भाषणसन्देशः, ऑगस्ट २०१२