कश्चन संन्यासी ग्रामात् ग्रामं गच्छन् जनान् उद्बोधयति स्म । कदाचित् प्रयाणावसरे तेन काचित् मरुभूमिः प्राप्ता ।
सः अग्रे अगच्छत् । महती पिपासा तम् अबाधत । पुनः अग्रे गमनात् तस्य पिपासा अवर्धत । तत्कारणात् कस्याश्चित् शिलायाः पार्श्वे सः उपाविशत् । अल्पे एव काले कश्चन शीतलः वायुः मन्दतया अवात् । तस्मात् सः अवगतवान् यत् समीपे एव जलम् अस्ति इति । अतः सः उत्थाय मन्दं ततः प्रस्थितवान् । अचिरात् एव तेन कश्चन कासारः प्राप्तः । सः कमण्डलुना जलं सङ्गृह्य आतृप्ति जलम् अपिबत् ।
तावता कश्चन शुनकः आगतः । सोऽपि नितरां पिपासितः । एवम् । सः अग्रे गत्वा जलम् अपिबत् । ततः जले मज्जनं कृत्वा शरीरम् आर्द्रम् अकरोत् । अनन्तरं तृप्त्या सः ततः निर्गतः । एतत् दृष्ट्वा सः संन्यासी अचिन्तयत् - ‘एतस्य शुनकस्य स्वातन्त्र्यं विशिष्टम् । एतस्य समीपे जलसङ्ग्रहाय नास्ति कमण्डलुः । जलसङ्ग्रहाय अन्यत् पात्रमपि नास्ति तस्य । तथापि निश्चिततया जीवति सः । अहं तु आत्मानं सर्वसङ्ग्रहपरित्यागिनं भावयामि । किन्तु प्रयाणावसरे सर्वदा एतं कमण्डलुं रक्षामि जागरूकतया । रात्रौ शयनसमये अपि भीतिं प्राप्नोमि - चोरः एतं चोरयेत् इति । सर्वसङ्ग्रहपरित्यागं कर्तुम् इच्छतः मम एतस्मिन् कमण्डलौ मोहः किम् अर्थम् ? यदि शुनकादिजीवी पात्रादिकं विना एव जीवितुं शक्नुयात् तर्हि शक्तिमान् बुद्धियुक्तः मानवः अहं कथं तादृशं जीवनं कर्तुं न शक्नुयाम् ? धिक् मम मोह-स्वभावम्’ इति ।
ततः सः स्वसमीपे स्थितं कमण्डलुं कासारे क्षिप्त्वा ज्ञानदातारं तं शुनकं गुरुं मत्वा तं मनसा नमस्कृत्य ततः प्रस्थितवान् ।
जीवनयात्रायां यावच्छक्यं वस्तुमोहः न्यूनीकरणीयः । वस्तुनि अल्पानि चेत् आनन्दः अधिकः । ‘अहं सर्वं जानामि’ इत्यादयः भ्रमाः; अहङ्कारः, क्रोधः इत्यादयः अपि वस्तुनि इव भारायन्ते एव जीवने । तानि अपि यावच्छक्यं न्यूनी-करणीयानि ।
सम्भाषणसन्देशः, जुलै २०१७